सन्ध्यावन्दनम्ः सन्ध्यावन्दनं नित्यं करणीयं यतो हि यः सन्ध्यां न जानाति सन्ध्योपासनं न करोति स जीविते सत्यपि शूद्रो जायते। पंचत्वप्राप्त्यनन्तरं श्वयोनौ जायते। यः सन्ध्या हीनः सोऽपवित्रो भवति। सर्वकर्मसु योग्यतां न प्राप्नोति। सो हि यद्यत् कर्म करोति तस्य फलं तस्मै न मिलति। आत्मविदेन द्विजेन सर्वदा सन्ध्यात्रयं प्रकत्र्तव्यम्। ये जनाः शंसितव्रताः सततं सन्ध्योपासनं कुर्वन्ति। ते पापरहितो भूत्वा सनातनं व्रह्मलोकं प्रयान्ति उद्यन्तमस्तं यन्तमादित्यमभिध्यायन् कुर्वन् व्राह्मणो विद्वान, सकलं भद्रं अश्नुतेऽसावादित्यो व्रह्मति ब्रह्मैव सन् ब्रह्माप्येति स एवं वेद इति
गायत्री जपं कुर्वन् समीप्सितं फलमथवा व्रह्मः प्राप्तो भवति। भगवतः सूर्यस्यैव कालभेदेन बहूनि नामानि सन्ति यथा-‘‘पूर्वाह्णे तु गायत्री नाम, मध्यमे दिने सावित्री, सायान्हे सरस्वती,सैव त्रिषु सन्ध्यासु स्मरणीयः।। केचिन्मतं यत् ‘‘सन्धि काले समुपास्यात्वात् सन्ध्यानाम। पूर्वो हि पूर्वाह्णे रक्तवर्णां तु मध्यान्हे शुक्ल वर्णिकाम् सायं सरस्वतीं कृष्णां द्विजो ध्यायेद्यथाविधि7 ।। केचित्कथयन्ति यत सम्यग्ध्येयत्वात्सन्ध्या। उभयथा सूर्य एवं ध्येयः। गायत्री रक्तवर्णाः भवेत्,सावित्री शुक्लवर्णिका, सरस्वती कृष्णवर्णा भवेदिति वर्णभेदतः उपासना योग्याः। गायत्री व्रह्मरूपा, सावित्री, रूद्रस्वरूपिणी। सरस्वती विष्णुरूपेति रूपभेदत उपासनायोग्याः। गायत्री प्रोच्यते पातकात् उपपातकात् प्रतिग्रहदोषो तु न भवेदिति। सवितृद्योतनात् सावित्री जगतः प्रसवित्रीत्वात् सरस्वती। यः मनवत्कमलासने समुपस्थितां गायत्री चिन्तयेत् स धर्माधर्म विनिर्मुक्तः परमां गतिं याति।
कालः प्रातः काले (ब्राह्ममुहूत्र्ते) यदाऽऽकाशे तारा भवन्ति तस्मिन् समये या सन्ध्या सा सन्ध्यासु सोत्तमा कथ्यते। यदाऽऽकाशे तारा लुप्ता भवन्ति तदा या सन्ध्या सा मध्यमेति कथ्यते। सूर्योदये जाते सति या सन्ध्या साऽधमेति निगद्यते। सायं काले सूर्यास्त प्रागेव या सन्ध्या साऽधमेति निगद्यते। सायंकाले सूर्यास्त प्रागेव या सन्ध्या सोत्तमा, यदालुप्ततारका (सूर्यास्तानन्तरं तारा उदयात्पूर्वं) या सन्ध्या सा मध्यमेति। यदा सायंकालेऽऽकाशे ताराः संजायन्ते, तदा या सन्ध्या सा कनिष्ठेति निगद्यते। विप्रस्य सन्ध्याकालः उदयात् प्रागेव (सूर्योदयात्) द्विमुहूत्र्तकं यावत्। क्षत्रियेकं, वैश्यस्यार्द्धमुहूर्तकं संध्याकाल।
आसनम्ः- कौशेयस्य, कम्बलस्य, मृगचर्मस्य, वस्त्रस्य, दारूजस्य, तालपात्रस्यासनं कल्पनीयम्। कृष्णमृगचर्मस्यासने ज्ञानसिद्धिर्भवति। व्याघ्रचर्मासने तु मोक्ष श्रीः प्राप्तो भवति। सूतके मृतके वाऽऽपिप्राणायाममन्त्रकं करणीयम्।
हवनविधिः सन्ध्या कर्म समाप्ते सति स्वयं हवनं करणीयम्। असमर्थे तु ऋत्विजेन, ऋत्विजपुत्रेण,गुरुभ्रात्रा, भागिनेयेन, जामात्रावा हवनं कारयेत यावत्सर्वतः सम्यगाकाशे तारादयः न भाव्यन्ते तावत्हवनं करणीयमिति।
No comments:
Post a Comment